इयं संवर्धनवारिधारा तृष्णा विषवल्लीनाम्, व्याधगीतिरिन्द्रियमृगाणाम्, परामर्शधूमलेखा सच्चरितचित्राणाम्, तिमिरोद्गतिः शास्त्रदृष्टीनाम् पुरः पताका सर्वाविनयानाम्, उत्पत्तिनिम्नगा क्रोधवेगग्राहाणाम्
आपानभूमिर्विषयमधूनाम् सङ्गीतशाला भ्रूविकारनाट्यानाम्, आवासदरी दोषाशीविषाणाम् उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम्, प्रस्तावना कपटनाटकस्य कदलिका कामकारिणः, वध्यशाला साधुभावस्य राहुजिह्वा धर्मेन्दुमण्डलस्य,
लतेव विटपकानध्यारोहति । गङ्गेव वसुजनन्यपि तरङ्गबुचञ्चला, पातालगुहेव तमोबहुला, हिडिम्बेव भीमसाहसैकहार्य हृदया, प्रावृडिवाचिरद्युतिकारिणी, दुष्टपिशाचीव दर्शितानेकपुरुषोच्छाया स्वल्पसत्त्वमुन्मत्तीकरोति ।
उपरिलिखित परिच्छेदमनुसृत्य अधोलिखितेषु -"कदलिका कामकरिणः- "इत्यत्र करिणः तुलना केन सह कृता?