तात ! चन्द्रापीड ! विदितवेदितव्यस्य अधीत सर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति। के वालञ्च निसर्गत एव अभानुभेद्यमरत्नालोकच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो लक्ष्मीमदः।
यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । भवादृशा एव भवन्ति भाजनानि उपदेशानाम्। अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेन उपदेशगुणाः।
सरस्वती परिगृहीतमीर्ष्ययेव नालिङ्गति जनम् । गुणवन्तमपवित्रमिव न स्पृशति । उदारसत्वममङ्गलमिव न बहु मन्यते। इति शुकनासोपदेशं श्रुत्वा राजकुमारोऽतितरां धर्जितः।
अस्मिन् गद्यखण्डे कः उपदिशति?