'गौः शुक्लः चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः' इति महाभाष्यकारः । परमाण्वादीनां तु गणपाठमध्यपाठात् पारिभाषिकं गुणत्वम् । गुणक्रियायदृच्छानां वस्तुतः एकरूपाणामप्याश्रयभेदाद् भेद एव लक्ष्यते ।
यथैकस्य मुखस्य खड्गमुकुरतैलाद्यालम्बनभेदात् हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्रशेन शुक्लः शुक्ल इत्यादिरभिन्नाभिधानप्रत्ययोत्पत्तिस्तच्छुक्लत्वादि सामान्यम् ।
गुडतण्डुलादिपाकादिष्वेवमेव पाकादित्वम्। बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्याद्यर्थेषु वा डित्थादित्वमस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये । तद्वानपोहो वा शब्दार्थः कैश्चिदुक्त इति ग्रन्थगौरवभयात् प्रकृतानुपयोगाच्च न दर्शितम्।
'हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्लः इत्यादिरभिन्नाभिधान प्रत्ययोत्पत्तिस्तच्छुक्लत्वादि सामान्यम्।' इत्यस्मिन् गद्यांश केषां सिद्धान्तः अस्ति?
Correct Answer: (c) मीमांसकानाम्
Solution:'हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यदृशेन शुक्लः शुक्लः इत्यादिरभिन्नाभिधान प्रत्ययोत्पत्तिस्तच्छुक्लत्वादि सामान्यम् ।' इत्यस्मिन् गद्यांशे मीमांसकानां सिद्धान्तः अस्ति। अर्थात् वर्ष, दूध, शख आदि में रहने वाला शुक्ल वास्तव में भिन्न होता है
परन्तु शुक्ल आदि गुणों में जिनमें जिनके कारण शुक्लः शुक्लः इस प्रकार का एकाकार कथन और प्रतीति की उत्पत्ति होती है वह शुक्लत्व आदि सामान्य जाति है। यह सिद्धान्त मीमांसको का है। 'संकेतितश्चतुर्भेदो जात्यादिर्जातिरेव वा' अर्थात् वैयाकरण संकेतक जाति आदि में मानते हैं परन्तु मीमांसक केवल जाति में ही मानते हैं।