सर्वैवात्मसम्पत् अभिजनात्प्रभृत्यन्यूनैवात्रभवति लक्ष्यते । वृद्धिश्च निसर्गपट्टी कलासु नृत्यगीतादिषु चित्रेषु च काव्यविस्तरेषु प्राप्तविस्तरा तवेतरेभ्यः प्रतिविशिष्यते ।
तथाप्यसौ अप्रतिपद्यात्मसंस्कारम् अर्थशास्त्रेषु अनग्निसंशोधितेव हेमजातिर्नातिभाति बुद्धिः । बुद्धिशून्यों हि भूभृदत्युच्छितोऽपि परैरध्यारूह्यामाणम् आत्मान न चेतयेत न च शक्तः साध्यं साधनं वा विभज्य वर्तितुम् ।
अयथावृत्तश्च कर्मसु प्रतिहन्यमानः स्वैः परैश्च परिभूयते । न चावज्ञातस्याज्ञा प्रभवति प्रजानां योगक्षेमाराधनाय।
अतिक्रान्तशासनाश्च प्रजाः यत्किंचनवादिन्यो यथाञ्चिद्वर्तिन्यः सर्वाः स्थितिः संकिरेयुः । निर्मर्यादश्च लोको लोकादितोऽमुतश्च स्वामिनम् आत्मानं च भ्रंशयेत।
वसुरक्षितः इति कस्य नाम ?