साक्षात्कारिप्रमाकरणं प्रत्यक्षम्। साक्षात्कारिणी च प्रमा, सा एवोच्यते या इन्द्रियजा। सा च द्विधा सविकल्पक - निर्विकल्पक भेदात्। तस्य करणं त्रिविधम् कदाचित् इन्द्रियम्, कदाचित् इन्द्रियार्थसन्निकर्षः, कदाचिज्ज्ञानम्।
कदा पुनरिन्द्रियं करणम् ? यदा निर्विकल्परूपा प्रमा फलम् तथा हि-आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, इन्द्रियाणां वस्तु प्राप्य प्रकाशकारित्वनियमात्।
ततोऽर्थसन्निकृष्टेनेन्द्रियेण निर्विकल्पकं नामजात्यादियोजनाहीनं वस्तुमात्रावगाहि किञ्चिदिदमिति ज्ञानं जन्यते। तस्य ज्ञानस्येन्द्रियं करणं, छिदायाः इव परशुः। इन्द्रियार्थसन्निकर्षोऽवान्तरव्यापारः,
छिदाकरणस्य परशोरिव दारुसंयोगः । निर्विकल्पकं ज्ञानं फलं, परशोरिव छिदा।
केषां वस्तु प्राप्य प्रकाशकारित्वम् ?
Correct Answer: (c) इन्द्रियाणाम्
Solution:इन्द्रियाणां वस्तु प्राप्य प्रकाशकारित्वनियमान्। अर्थात् इन्द्रियाँ वस्तु को प्राप्त कर प्रकाशित करना नियम है। अतः अर्थसन्निकर्ष इन्द्रिय से निर्विकल्पर्क नामजात्यादि की योजना से हीन वस्तुमात्र का कथन करता है कि 'यह कुछ है' इस प्रकार का ज्ञान उत्पन्न होता है।