यदा चक्षुरादिना घटगतरूपादिकं गृह्यते घटे श्यामरूपमस्तीति, तदा चक्षुरिन्द्रियं घटरूपमर्थः, अनयोः सन्निकर्षः संयुक्तसमवाय एव, चक्षुः संयुक्ते घटे रूपस्य समवायात्। एवं मनसाऽऽत्मसमवेते सुखादो गृह्यमाणे अयमेव सन्निकर्षः ।
यदा पुनश्चक्षुषा घटरूपसमवेतं रूपत्वादिसामान्यं गृह्यते तदा चक्षुरिन्द्रियं रूपत्वादिसामान्यमर्थःस अनयोः सन्निकर्षः संयुक्तसमवेतसमवाय एव, यतश्चक्षुस्संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात्। यदा श्रोत्रेन्द्रियेण शब्दो शब्दत्वस्य समवायात्।
यदा च मनस्संयुक्त आत्मनि सुखाद्यभावो गृह्यते 'अहं सुखरहितः इति तदा मनः संयुक्तस्यात्मनः सुखाद्यभावो विशेषणम्।' यदा श्रोत्रसमवेते ग कारे घत्वाभावो गृह्यते तदा श्रोत्रसमवेतस्य गकारस्य घत्वाभावो विशेषणम् ।
सुखप्रत्यक्षे कः सन्निकर्षः ?