NTA यू.जी.सी. नेट जेआरएफ पुनर्परीक्षा, जून-2024 संस्कृत

Total Questions: 100

91. अधोलिखित गद्यांशं पठित्वा समुचितमुत्तरं चिनोतु ।

न्त्राणां च प्रयोगसमवेतार्थस्मारकतयार्थवत्वम्। न तु तदुच्चारणमदृष्टार्थम् । दृष्टे सम्भवति अदृष्टस्यान्याय्यत्वात् । न च दृष्टस्य प्रकारान्तरेणापि संभवान्मन्त्राम्रनमनर्थकम् । मन्त्रैरेव स्मर्तव्यमिति नियमविध्याश्रयणात्। साधनद्रयस्य पक्षप्राप्ती अन्यतरस्य साधनस्याप्राप्ततादशायां यो विधिः स नियमविधिः । यथा :-

विधिरत्यन्तमप्राप्ते नियमः पालिके सति ।
तत्र चान्यत्र च प्राप्तौ परिसंख्येति गीयते ॥

अस्यायमर्थः । यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सोऽपूर्वविधिः । यथा 'यजेत् स्वर्गकामः' इत्यादिः । यागस्य हि स्वर्गार्थत्वं न प्रमाणान्तरेण प्राप्तं किन्त्वनेनैव विधिनेति भवत्ययमपूर्वविधिः । पक्षेऽप्राप्तस्य तु यो विधिः स नियमविधिः। यथा 'व्रीहीनवहन्तिः' इत्यादि । अनेन हि विधिनाऽवघातस्य न वैतुष्यार्थत्वं बोध्यते। अन्वयव्यतिरेकसिद्धत्वात्। किन्तु नियमः ।

स चाप्राप्तांशपूरणम्। वैतुष्यस्य हि नानोपायसाध्यत्वाद्यस्यां दशायामवघातं परिहृत्योपायान्तरं ग्रहीतुमारभते तस्यां दशायामवघातस्याप्राप्तत्वेन तद्विधानात्मकमप्राप्तांशपूरणमेवानेन विधिना क्रियते । अतश्च नियमविधावप्राप्तांशपूरणात्मको नियम एव वाक्यार्थः । पक्षेऽप्राप्ततादशायामवघातविधानमितियावत्। न त्वपूर्वविधाविवात्यन्ताप्राप्तयागविधानमिति ।

 'यजेत् स्वर्गकामः' इत्यत्र धात्वर्थस्य कथमन्वयः

Correct Answer: (d) साधनत्वेन
Solution:"यजेत् स्वर्गकामः” इत्यत्र धात्वर्थस्य साधनत्वेन अन्वयः भवति । अर्थात् "यजेत् स्वर्गकामः” यह धात्वर्थ का अन्वय साधन से होता है।

यस्य यदर्थत्वं प्रमाणान्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सोऽपूर्वविधिः । यथा यजेत् स्वर्गकामः”

92. मन्त्राणां दृष्टं फलं किं भवति ?

Correct Answer: (c) अर्थज्ञानम्
Solution:मन्त्राणां दृष्टं फलं अर्थज्ञानम् भवति। मन्त्रों का दृष्टफल अर्थ का ज्ञान होता है।

93. 'अवघातः तुषविमोकार्थः' इत्यत्र अन्वयव्यतिरेकसिद्धिः कथम्?

Correct Answer: (c) अवघातसत्त्वे तुषविमोकसत्त्वात् अवघाताभावे तुषविमोकाभावात्
Solution:'अवघातः तुषविमोकार्थः' इत्यत्र अन्वयव्यतिरेकि सिद्धिः अवघातसत्वे नुषविमोक सत्वात् अवघाताभावे तुषविमोकाभावात् ।

94. "मन्त्राणां च प्रयोगसमवेतार्थस्मारकतयार्थवत्त्वम् " इति लक्षणं कीदृशं लक्षणम् ?

Correct Answer: (c) स्वरूपकथनमुखेन लक्षणम्
Solution:"मन्त्राणां च प्रयोगसमवेतार्थस्मारकतयार्थवत्वम् " इति लक्षणम् 'स्वरूपकथनमुखेन' लक्षणम् अस्ति।

95. 'व्रीहीनवहन्ति' इति विधिः कुतः अपूर्वविधिः न भवति ?

Correct Answer: (d) अत्यन्ताप्राप्तार्थस्यासमर्पणात्
Solution:'व्रीहीनवहन्ति' इतिविधिः अत्यन्ताप्राप्तार्थस्यासमर्पणात् अपूर्व विधिः न भवति । 'व्रीहीनवहन्ति' यह विधि अत्यन्त प्राप्ति अर्थ के समर्पण से अपूर्व विधि नहीं होती है।

96. अधोलिखित गद्यांश पठित्वा समुचितमुत्तरं चिनोतु |

अनेन ह्यायमर्थो व्यङ्ग्यत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं

तत्सर्वमवसानविरसमविद्याप्रपञ्चरूपञ्च, परमार्थसत्यस्वरूपस्तु भगवान् वासुदेवोऽत्र की ते । तस्मात् तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो, मा भूत विभूतिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टधियः ।

तथा चाग्रे -- पश्यत निःसारतां संसारस्येत्यमुमेवार्थं द्योतयन् स्फुटमेवावभासते व्यञ्जकशक्त्यनुगृहीतश्च शब्दः । एवंविधमेवार्थं गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते। 'स हि सत्यम्' इत्यादयः ।

अयं च निगूढरमणीयोऽर्थो महाभारतावसाने हरिवंशवर्णनेन समाप्ति विदधता तेनैव कविवेधसा कृष्णद्वैपायनेन सम्यक् स्फुटीकृतः । अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्वपक्षीकृतोऽध्यक्षेण प्रकाशते।

देवतातीर्थतपःप्रभृतीनां च प्रभावातिशयवर्णनं तस्यैव परब्रह्मणः प्राप्त्युपायत्वेन तद्विभूतित्वेनैव देवताविशेषाणामन्येषां च। पाण्डवादिचरितवर्णनस्यापि वैराग्यजननतात्पर्याद् वैराग्यस्य च मोक्षमूलत्वोन्मोक्षस्य च भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात् परब्रह्मप्राप्त्युपायत्वमेव परम्परया।

"एवंविधमेवार्थं गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते। 'स हि सत्यम्' इत्यादयः ।" अत्र सर्वनाम्रा कस्य परामर्शः क्रियते? 

Correct Answer: (a) परब्रह्मणः
Solution:"एवं विधमेवार्थ गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते। स हि सत्यम् इत्यादयः ।” अत्र सर्वनाम्ना पर ब्रह्मणः परामर्शः क्रियते। यहाँ सर्वनाम पद से परब्रह्म का परामर्श होता है। तथा चाग्रे - पश्यत निःसारतां संसारस्येत्यमुमेवार्थं द्योतयन् स्फुटमेवावभासते व्यंजकशक्त्यनुगृहीतश्च शब्दः ।

97. नयविनयपराक्रमादिष्वमीषु केवलेषु इत्यादिवाक्ये 'नय' शब्दार्थः कः?

Correct Answer: (c) नीतिः
Solution:नयविनयपराक्रमादिष्वमीषु केवलेषु इत्यादिवाक्ये नय शब्दार्थः नीतिः अस्ति। अर्थात् नयविनय पराक्रम ........ इस वाक्य में नय शब्द का अर्थ नीति है।

98. "प्रतिनिविष्टधियः " इति शब्दे कः समासः ?

Correct Answer: (d) बहुव्रीहिः
Solution:"प्रतिनिविष्टधियः” इति पदे बहुव्रीहिः समासः अस्ति। प्रतिनिविष्टधियः” इस पद में बहुव्रीहि समास है। प्रतिनिविष्टः धियः यस्य सः प्रतिनिविष्टधियः

99. "अयं सम्यक् च निगूढरमणीयोऽर्थो महाभारतावसाने...... स्फुटीकृतः " इत्यादिवाक्ये निगूढरमणीयार्थशब्दः कस्य वाचकः ?

Correct Answer: (d) व्यङ्ग्यार्थस्य
Solution:"अयं च निगूढरमणीयोऽर्थो महाभारतावसाने ...... सम्यक् स्फुटीकृतः” इत्यादि वाक्ये निगूढ रमणीयार्थ शब्द व्यङ्ग्यार्थस्य" वाचकः भवति । इस वाक्य में आये हुए रमणीय पद का अर्थ व्यङ्ग्यार्थ है।

100. महाभारते वर्णितेऽपि पाण्डवादिचरिते तत्र व्यङ्ग्यरूपेण कोऽर्थोऽभिव्यज्यते ?

Correct Answer: (b) मोक्षप्राप्तिः
Solution:महाभारतेवर्णितेऽपि पाण्डवादि चरिते तत्र व्यङ्ग्यरूपेण मोक्ष प्राप्तिः अर्थो अभिव्यज्यते । महाभारत में वर्णित पाण्डवादि चरित में व्यङ्ग्य रूप से मोक्ष प्राप्ति का अर्थ अभिव्यंजित होता है।